मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ९

संहिता

दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रद॒द्द्यौश्च॒ यस्य॑ पृथि॒वी च॒ धर्म॑भिः ।
इन्द्र॑स्य स॒ख्यं प॑वते वि॒वेवि॑द॒त्सोमः॑ पुना॒नः क॒लशे॑षु सीदति ॥

पदपाठः

दि॒वः । न । सानु॑ । स्त॒नय॑न् । अ॒चि॒क्र॒द॒त् । द्यौः । च॒ । यस्य॑ । पृ॒थि॒वी । च॒ । धर्म॑ऽभिः ।
इन्द्र॑स्य । स॒ख्यम् । प॒व॒ते॒ । वि॒ऽवेवि॑दत् । सोमः॑ । पु॒ना॒नः । क॒लशे॑षु । सी॒द॒ति॒ ॥

सायणभाष्यम्

दिवोन सानु स्तनयन् द्युलोकस्य समुच्छ्रितंस्थानं शब्दयन्निवाचिक्रदत् क्रन्दते यस्य सोमस्य धर्मभिः धारणैर्द्योःपृथिवीच धृते स्यातां वृष्टिप्रदानद्वारौषध्याद्युत्पदनेन देवानां- हविर्भागेन चोभयधारकत्वंप्रसिद्धम् । तादृशः सोमोमहानुभावः पुनानः पूयमनः इन्द्रस्य सख्यं विवेविदत् पवते पूयते पवित्रे । सपुनानः सोमः कलशेषु सीदति निवसति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३