मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ११

संहिता

अ॒भि॒क्रन्द॑न्क॒लशं॑ वा॒ज्य॑र्षति॒ पति॑र्दि॒वः श॒तधा॑रो विचक्ष॒णः ।
हरि॑र्मि॒त्रस्य॒ सद॑नेषु सीदति मर्मृजा॒नोऽवि॑भि॒ः सिन्धु॑भि॒र्वृषा॑ ॥

पदपाठः

अ॒भि॒ऽक्रन्द॑न् । क॒लश॑म् । वा॒जी । अ॒र्ष॒ति॒ । पतिः॑ । दि॒वः । श॒तऽधा॑रः । वि॒ऽच॒क्ष॒णः ।
हरिः॑ । मि॒त्रस्य॑ । सद॑नेषु । सी॒द॒ति॒ । म॒र्मृ॒जा॒नः । अवि॑ऽभिः । सिन्धु॑ऽभिः । वृषा॑ ॥

सायणभाष्यम्

वाजी वेजनवान् गमनवान् अश्वसदृशोवा सोमः अभिक्रन्दन् शब्दंकुर्वन् कलशमभ्यन्त गच्छति । कीदृशोवाजी दिवः पतिः द्युलोकस्यस्वामी शतधारः शतसंख्याकधारः विचक्षणो विद्रष्टा हरिर्हरितवर्णोरसात्मकः सोमोमित्रस्य देवानां मित्रभूतस्य यज्ञस्य वा सदनेषुस्था नेषु सीदति पात्रेषु धृतःसन् । कीदृशोहरिः सिन्धुभिः स्यन्दनसाधनैः अविभिर्दशापवित्र- च्छिदैर्मर्मृजानः शोध्यमानोवृषा वर्षकः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४