मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् १२

संहिता

अग्रे॒ सिन्धू॑नां॒ पव॑मानो अर्ष॒त्यग्रे॑ वा॒चो अ॑ग्रि॒यो गोषु॑ गच्छति ।
अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा॑यु॒धः सो॒तृभि॑ः पूयते॒ वृषा॑ ॥

पदपाठः

अग्रे॑ । सिन्धू॑नाम् । पव॑मानः । अ॒र्ष॒ति॒ । अग्रे॑ । वा॒चः । अ॒ग्रि॒यः । गोषु॑ । ग॒च्छ॒ति॒ ।
अग्रे॑ । वाज॑स्य । भ॒ज॒ते॒ । म॒हा॒ऽध॒नम् । सु॒ऽआ॒यु॒धः । सो॒तृऽभिः॑ । पू॒य॒ते॒ । वृषा॑ ॥

सायणभाष्यम्

यः सोमः पवमानः सिन्धूनां स्यन्दमानानामुदकानां अग्रे अर्षति गच्छति तथ्राअग्रियः अग्रार्हःश्रेष्ठोग्रेवाचोमाध्यमिकायाअग्रेअर्षति । तथा गोषु रश्मिषु गच्छति तथा वाजस्या- न्नस्य बलस्यवालाभाय महाधनं संग्रामं भजते सस्वायुधः वृषा वर्षकः सोमः सोतृभिः अभिषवकर्तृभिः पूयते ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४