मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् १३

संहिता

अ॒यं म॒तवा॑ञ्छकु॒नो यथा॑ हि॒तोऽव्ये॑ ससार॒ पव॑मान ऊ॒र्मिणा॑ ।
तव॒ क्रत्वा॒ रोद॑सी अन्त॒रा क॑वे॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ॥

पदपाठः

अ॒यम् । म॒तऽवा॑न् । श॒कु॒नः । यथा॑ । हि॒तः । अव्ये॑ । स॒सा॒र॒ । पव॑मानः । ऊ॒र्मिणा॑ ।
तव॑ । क्रत्वा॑ । रोद॑सी॒ इति॑ । अ॒न्त॒रा । क॒वे॒ । शुचिः॑ । धि॒या । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ ॥

सायणभाष्यम्

अयं सोमोमतवान् मतं संमतं प्रियं स्तोत्रं तद्वान् पवमानः पूयमानः शोध्यमानश्चसन् हितः प्रेरितः शकुनः पक्षी यथा शीघ्रंगच्छति तथा अव्येपवित्रे ऊर्मिणारसेन ससार गच्छाति । हेकवे क्रान्तप्रज्ञ अनूचानवा । येवाअनूचानास्तेकवयइतिश्रुतेः । तादृशेन्द्रयजमान यद्वा उक्तलक्षणेन्द्र ते तव क्रत्वा कर्मणा धियाप्रज्ञयाच यद्वा विशेषणविशॆष्यभावः धिया धारकेणक्रत्वाकर्मणा रोदसी अंतरा रोदस्योर्द्यावापृथिव्योर्मध्ये शुचिः सोमः पवते पूयते ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४