मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् २२

संहिता

पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजा॒न इ॑न्दो क॒लशे॑ प॒वित्र॒ आ ।
सीद॒न्निन्द्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि॑र्य॒तः सूर्य॒मारो॑हयो दि॒वि ॥

पदपाठः

पव॑स्व । सो॒म॒ । दि॒व्येषु॑ । धाम॑ऽसु । सृ॒जा॒नः । इ॒न्दो॒ इति॑ । क॒लशे॑ । प॒वित्रे॑ । आ ।
सीद॑न् । इन्द्र॑स्य । ज॒ठरे॑ । कनि॑क्रदत् । नृऽभिः॑ । य॒तः । सूर्य॑म् । आ । अ॒रो॒ह॒यः॒ । दि॒वि ॥

सायणभाष्यम्

हे सोम दिव्येषु धामसु स्थानेषु देवानांसंबन्धिषूदरेष्वित्यर्थः तेषु पवस्व क्षर । कीदृ- शान् हे इन्दो दीप्त सोम कलशे पवित्रे आ दशापवित्रे च । आइतिचार्थे । सृजानः सृज्य- मानः । अत्राग्निहोत्रं जुहोति यवागूं पचतीतिवदार्थिकः क्रमोवगंतव्यः । किंचेन्द्रस्य जठरे सीदन् जठरं गच्छन् कनिक्रदत् शब्दंकुर्वन् नृभिर्नेतृभिरृत्विग्भिः यतः परिगृहीतःहुतइत्यर्थः । तथाभूतः सन् दिविसूर्यमारेहयः प्रादुर्भूतमकरोः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६