मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् २५

संहिता

अव्ये॑ पुना॒नं परि॒ वार॑ ऊ॒र्मिणा॒ हरिं॑ नवन्ते अ॒भि स॒प्त धे॒नवः॑ ।
अ॒पामु॒पस्थे॒ अध्या॒यवः॑ क॒विमृ॒तस्य॒ योना॑ महि॒षा अ॑हेषत ॥

पदपाठः

अव्ये॑ । पु॒ना॒नम् । परि॑ । वारे॑ । ऊ॒र्मिणा॑ । हरि॑म् । न॒व॒न्ते॒ । अ॒भि । स॒प्त । धे॒नवः॑ ।
अ॒पाम् । उ॒पऽस्थे॑ । अधि॑ । आ॒यवः॑ । क॒विम् । ऋ॒तस्य॑ । योना॑ । म॒हि॒षाः । अ॒हे॒ष॒त॒ ॥

सायणभाष्यम्

अव्ये अविमये वारे वाले दशापवित्रे ऊर्मिणा रसेन परि परितः पुनानं पवमानं हरिं हरितवर्णं सोमं अभिनवन्ते अभिगच्छन्ति सप्तधेनवः प्रीणयित्र्यः सप्त गायत्र्याद्याः सप्त गंगाद्या नद्योवा नवते क्षोदते इतिगतिकर्मसुपठितः । किंच कविं त्वां अपामुपस्थे अ- न्तरिक्षस्योत्संगे ऋतस्य योना योनौ उदकनामैतत् ऋतंयोनिः ऋतस्ययोनिरिति तन्नाम- सुपाठात् उदके महिषाः महान्तआयवोमनुष्याः अध्यहेषत अधिकं प्रेरयन्ति ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६