मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् २६

संहिता

इन्दु॑ः पुना॒नो अति॑ गाहते॒ मृधो॒ विश्वा॑नि कृ॒ण्वन्त्सु॒पथा॑नि॒ यज्य॑वे ।
गाः कृ॑ण्वा॒नो नि॒र्णिजं॑ हर्य॒तः क॒विरत्यो॒ न क्रीळ॒न्परि॒ वार॑मर्षति ॥

पदपाठः

इन्दुः॑ । पु॒ना॒नः । अति॑ । गा॒ह॒ते॒ । मृधः॑ । विश्वा॑नि । कृ॒ण्वन् । सु॒ऽपथा॑नि । यज्य॑वे ।
गाः । कृ॒ण्वा॒नः । निः॒ऽनिज॑म् । ह॒र्य॒तः । क॒विः । अत्यः॑ । न । क्रीळ॑न् । परि॑ । वार॑म् । अ॒र्ष॒ति॒ ॥

सायणभाष्यम्

अयमिन्दुः दीप्तः सोमः पुनानः पूयमानःअतिगाहते अतिक्रम्य गच्छति । मृधः शत्रून् । किंकुर्वन् विश्वानि गंतव्यानि सुवर्त्मानि वैदिकानि लौकिकानिच सुपथानि कृण्वन् कुर्वन् कस्मै यज्यवे यागकर्त्रे यजमानाय शत्रून् परिहरन् मार्गान् सुपथान् कुर्वन् कलशं प्रवि- शतीत्यर्थः । किंच निर्निजं आत्मीयं रूपं गाः कृण्वानोरसमयान् कुर्वाणइत्यर्थः हर्यतः कान्तः हर्यगतिकांत्योः औणादिकः अतच् कविः क्रान्तप्रज्ञः एवंभूतः सोमः अत्योन अश्वइव क्रीळण् वारं दशापवित्रं पर्यर्षति परिगच्छति ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७