मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् २७

संहिता

अ॒स॒श्चतः॑ श॒तधा॑रा अभि॒श्रियो॒ हरिं॑ नव॒न्तेऽव॒ ता उ॑द॒न्युवः॑ ।
क्षिपो॑ मृजन्ति॒ परि॒ गोभि॒रावृ॑तं तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥

पदपाठः

अ॒स॒श्चतः॑ । श॒तऽधा॑राः । अ॒भि॒ऽश्रियः॑ । हरि॑म् । न॒व॒न्ते॒ । अव॑ । ताः । उ॒द॒न्युवः॑ ।
क्षिपः॑ । मृ॒ज॒न्ति॒ । परि॑ । गोभिः॑ । आऽवृ॑तम् । तृ॒तीये॑ । पृ॒ष्ठे । अधि॑ । रो॒च॒ने । दि॒वः ॥

सायणभाष्यम्

असश्चतः परस्परमसंगताः शतधाराः अभिश्रियः अभितः सोमंश्रयन्त्यः ताः प्रसिद्धाः सूर्यस्य रश्मयो हरिं अवनवन्ते गच्छन्ति । उदन्युवः उदकेच्छावत्यः यद्वा धाराशब्देनात्र सोमधारा अभिप्रेताः असश्छतोसंबद्धाः अभिश्रियःअभितोगाः श्रयंत्यः गोभिः श्रिताः ताः प्रसिद्धा उदन्युव इन्द्रसंबन्धि वृष्टिकामा हरिमिन्द्रं अवनवन्ते संगच्छन्ते क्षिपोंगुलयोपि गोभिः दीप्तिपक्षे गोभीरश्मिभिरावृतं सोमधारापक्षे गोभिः पर्यावृतं व्याप्तं सोमं मृजन्ति अवशोधयन्ति । दिव आदित्याद्रोचने रोचमाने यमादित्योरोचयति तस्मिन् तृतीयेपृष्ठे क्षित्यपेक्षायां तृतीयभूते द्युलोके अधिवसन्तं सोमंमृजन्ति ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७