मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ४३

संहिता

अ॒ञ्जते॒ व्य॑ञ्जते॒ सम॑ञ्जते॒ क्रतुं॑ रिहन्ति॒ मधु॑ना॒भ्य॑ञ्जते ।
सिन्धो॑रुच्छ्वा॒से प॒तय॑न्तमु॒क्षणं॑ हिरण्यपा॒वाः प॒शुमा॑सु गृभ्णते ॥

पदपाठः

अ॒ञ्जते॑ । वि । अ॒ञ्ज॒ते॒ । सम् । अ॒ञ्ज॒ते॒ । क्रतु॑म् । रि॒ह॒न्ति॒ । मधु॑ना । अ॒भि । अ॒ञ्ज॒ते॒ ।
सिन्धोः॑ । उ॒त्ऽश्वा॒से । प॒तय॑न्तम् । उ॒क्षण॑म् । हि॒र॒ण्य॒ऽपा॒वाः । प॒शुम् । आ॒सु॒ । गृ॒भ्ण॒ते॒ ॥

सायणभाष्यम्

सोममृत्विजः अंजते गोभिः तथा व्यंजते विविधमञ्चन्ति समंजते सम्यगंजन्ति स्तुत्य- र्थत्वादपुनरुक्तिः । तथा क्रतुं बलकर्तारं रिहन्ति लिहन्ति आस्वादयन्ति देवाः तथा पुनर्म- धुना गव्येन अभ्यंजते तमेव सोमं सिंधोरुदकस्यरसस्याधारभूते उच्छ्वासे उच्छ्रितदेशे पतयन्तं गच्छन्तं पतॢगतावित्यस्मात्स्वार्थेणिचि वृद्भ्यभावश्छान्दसः । उक्षणं सेक्तारं हिरण्य पावाः हिरण्येन पुनन्तः पशुं द्रष्टारम् । पशुः पश्यतेरितिनिरुक्तम् । आसु वसतीवरीषु गृभ्णते गृह्णन्ति ॥ ४३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०