मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ४५

संहिता

अ॒ग्रे॒गो राजाप्य॑स्तविष्यते वि॒मानो॒ अह्नां॒ भुव॑ने॒ष्वर्पि॑तः ।
हरि॑र्घृ॒तस्नु॑ः सु॒दृशी॑को अर्ण॒वो ज्यो॒तीर॑थः पवते रा॒य ओ॒क्य॑ः ॥

पदपाठः

अ॒ग्रे॒ऽगः । राजा॑ । अप्यः॑ । त॒वि॒ष्य॒ते॒ । वि॒ऽमानः॑ । अह्ना॑म् । भुव॑नेषु । अर्पि॑तः ।
हरिः॑ । घृ॒तऽस्नुः॑ । सु॒ऽदृशी॑कः । अ॒र्ण॒वः । ज्यो॒तिःऽर॑थः । प॒व॒ते॒ । रा॒ये । ओ॒क्यः॑ ॥

सायणभाष्यम्

अग्रेगः अग्रेगन्ता राजा राजमानः अप्यः अप्सुसंस्कृतः सोमः तनिष्यते स्तूयते योह्वां दिनानां विमानो विमाता । चन्द्रकलाह्रासवृद्भ्यधीनत्वादहर्व्यवहारस्य भुवनेषूद- केषु वसतीबरीसंबंधिष्वर्पितः स्थापितः सराजा तविष्यते । किंच हरिर्हरितवर्णः घृतस्नुः प्रसृतोदकः सुदृशीकः शोभनदर्शनः अर्णवः उदकवान् अर्णइत्युदकनाम । ज्योतीरथः ज्योति र्मयरथः राये सनस्य प्रापयिता ओक्यः ओकइतिनिवासनाम तस्यहितः एतादृशः सोमः पवते गच्छति ॥ ४५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०