मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ४६

संहिता

अस॑र्जि स्क॒म्भो दि॒व उद्य॑तो॒ मद॒ः परि॑ त्रि॒धातु॒र्भुव॑नान्यर्षति ।
अं॒शुं रि॑हन्ति म॒तय॒ः पनि॑प्नतं गि॒रा यदि॑ नि॒र्णिज॑मृ॒ग्मिणो॑ य॒युः ॥

पदपाठः

अस॑र्जि । स्क॒म्भः । दि॒वः । उत्ऽय॑तः । मदः॑ । परि॑ । त्रि॒ऽधातुः॑ । भुव॑नानि । अ॒र्ष॒ति॒ ।
अं॒शुम् । रि॒ह॒न्ति॒ । म॒तयः॑ । पनि॑प्नतम् । गि॒रा । यदि॑ । निः॒ऽनिज॑म् । ऋ॒ग्मिणः॑ । य॒युः ॥

सायणभाष्यम्

दिवोद्युलोकस्य स्कंभः स्कंभयिता धारक उद्यतः मदः मादकः सोमः असर्जि सृज्यते अभिषूयतेइत्यर्थः । किंच त्रिधातुः द्रोणलकशाधवनीयपूतभृदाख्यास्त्रयोधातवोयस्य सतथोक्तः तादृशोभुवनानि उदकानि पर्यर्षति गच्छति अंशुं सोमं पनिप्नतं शब्दायमानं मतयः पूज- कारिहन्ति लिहंति आस्वादयन्ति कदा यदि यदा निर्निजं निर्निक्तं यद्वा निर्निगितिरूप- नाम रूपवन्तमित्यर्थः तं ऋग्मिणः स्तोतारोगिरास्तुत्या ययुर्गच्छन्ति तदा ॥ ४६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१