मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८७, ऋक् १

संहिता

प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी॑द॒ नृभि॑ः पुना॒नो अ॒भि वाज॑मर्ष ।
अश्वं॒ न त्वा॑ वा॒जिनं॑ म॒र्जय॒न्तोऽच्छा॑ ब॒र्ही र॑श॒नाभि॑र्नयन्ति ॥

पदपाठः

प्र । तु । द्र॒व॒ । परि॑ । कोश॑म् । नि । सी॒द॒ । नृऽभिः॑ । पु॒ना॒नः । अ॒भि । वाज॑म् । अ॒र्ष॒ ।
अश्व॑म् । न । त्वा॒ । वा॒जिन॑म् । म॒र्जय॑न्तः । अच्छ॑ । ब॒र्हिः । र॒श॒नाभिः॑ । न॒य॒न्ति॒ ॥

सायणभाष्यम्

हे सोम तु क्षिप्रं प्रद्रव गच्छ गत्वाच कोशं द्रोणकलशं परिनिषीद निषण्णोभव । नृभिर्नेतृभिः पुनानः पूयमानः वाजमन्नं यजमानार्थं उद्दिश्याभ्यर्ष अभिगच्छ । वाजिनं बलवन्तमश्वंन अश्वमिव तं यथा मार्जयन्ति तद्वद्वाजिनं त्वां मर्जयन्तः मार्जयन्तः शोध- यन्तोबर्हिर्यज्ञमच्छ प्रति रशनाभीरशनावदायताभिरंगुलिभिर्नयन्ति अध्वर्युप्रमुखाः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२