मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८७, ऋक् २

संहिता

स्वा॒यु॒धः प॑वते दे॒व इन्दु॑रशस्ति॒हा वृ॒जनं॒ रक्ष॑माणः ।
पि॒ता दे॒वानां॑ जनि॒ता सु॒दक्षो॑ विष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्याः ॥

पदपाठः

सु॒ऽआ॒यु॒धः । प॒व॒ते॒ । दे॒वः । इन्दुः॑ । अ॒श॒स्ति॒ऽहा । वृ॒जन॑म् । रक्ष॑माणः ।
पि॒ता । दे॒वाना॑म् । ज॒नि॒ता । सु॒ऽदक्षः॑ । वि॒ष्ट॒म्भः । दि॒वः । ध॒रुणः॑ । पृ॒थि॒व्याः ॥

सायणभाष्यम्

स्वायुधः शोभनायुधः इन्दुः सोमोदेवः पवते । सचदेवोशस्तिहा रक्षोहा वृजनं उप- द्रवं रक्षमाणः पिता पालकोदेवानां तथा जनिताउत्पादकः । सुदक्षः सुबलः दिवोविष्टंभः विशेषेणस्तंभयिता पृथिव्याश्च धरुणोधारकः एवं महानुभावः पवते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२