मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८७, ऋक् ३

संहिता

ऋषि॒र्विप्र॑ः पुरए॒ता जना॑नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये॑न ।
स चि॑द्विवेद॒ निहि॑तं॒ यदा॑सामपी॒च्यं१॒॑ गुह्यं॒ नाम॒ गोना॑म् ॥

पदपाठः

ऋषिः॑ । विप्रः॑ । पु॒रः॒ऽए॒ता । जना॑नाम् । ऋ॒भुः । धीरः॑ । उ॒शना॑ । काव्ये॑न ।
सः । चि॒त् । वि॒वे॒द॒ । निऽहि॑तम् । यत् । आ॒सा॒म् । अ॒पी॒च्य॑म् । गुह्य॑म् । नाम॑ । गोना॑म् ॥

सायणभाष्यम्

ऋषिरतीन्द्रियद्रष्टा विप्रोमेधावी पुरएता पुरतोगन्ता मनानां मनुष्याणां ऋभुः उरु- भासमानः धीरोधीमान् उशना एतन्नामाऋषिः यः सचित् सएव काव्येन कवित्वेन स्तोत्रेण विवेद लभते । किं यदासां गोनां गवां अपीच्यंअंतर्हितनामैतत् अंतर्हितं गुह्यं गोपनीयं नाम नामकमुदकं पयोलक्षणं निहितं स्थापितं लभतइत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२