मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८७, ऋक् ४

संहिता

ए॒ष स्य ते॒ मधु॑माँ इन्द्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे॑ अक्षाः ।
स॒ह॒स्र॒साः श॑त॒सा भू॑रि॒दावा॑ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ॥

पदपाठः

ए॒षः । स्यः । ते॒ । मधु॑ऽमान् । इ॒न्द्र॒ । सोमः॑ । वृषा॑ । वृष्णे॑ । परि॑ । प॒वित्रे॑ । अ॒क्षा॒रिति॑ ।
स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । भू॒रि॒ऽदावा॑ । श॒श्व॒त्ऽत॒मम् । ब॒र्हिः । आ । वा॒जी । अ॒स्था॒त् ॥

सायणभाष्यम्

हे इन्द्र वृष्णे वर्षकाय ते तुभ्यं एषस्यः ससोमोमधुमान् माधुर्योपेतोवृषा वर्षकः पवित्रे पर्यक्षाः परिक्षरति क्षरतेर्लुङिरूपम् । सएव सहस्रसाः सहस्रसंख्याकधनस्यदाता शतसाः शतसंख्याकस्य दाता भूरिदावा ततोपि भूरेर्दाता वाजी बलवान् शश्वत्तमं नित्यं बर्हिर्यज्ञं आ अस्थात् आतिष्ठति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२