मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८७, ऋक् ५

संहिता

ए॒ते सोमा॑ अ॒भि ग॒व्या स॒हस्रा॑ म॒हे वाजा॑या॒मृता॑य॒ श्रवां॑सि ।
प॒वित्रे॑भि॒ः पव॑माना असृग्रञ्छ्रव॒स्यवो॒ न पृ॑त॒नाजो॒ अत्या॑ः ॥

पदपाठः

ए॒ते । सोमाः॑ । अ॒भि । ग॒व्या । स॒हस्रा॑ । म॒हे । वाजा॑य । अ॒मृता॑य । श्रवां॑सि ।
प॒वित्रे॑भिः । पव॑मानाः । अ॒सृ॒ग्र॒न् । श्र॒व॒स्यवः॑ । न । पृ॒त॒नाजः॑ । अत्याः॑ ॥

सायणभाष्यम्

एतेसोमाः गव्या गव्यानि सहस्रा सहस्राणि श्रवांस्यन्नानि आशिरलक्षणानि लक्षीकृ- त्य पवित्रेभिः पवित्रच्छिद्रैः पवमानाः पूयमानाः महे महते वाजायान्नाय अमृताय अमृ- तत्वाय अभ्यसृग्रन् सृज्यन्ते । किमिच्छवः श्रवस्यवः अन्नेच्छवः पृतनाजः सेनाजेतारः अत्यान अश्वाइव ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२