मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८७, ऋक् ६

संहिता

परि॒ हि ष्मा॑ पुरुहू॒तो जना॑नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा॑नः ।
अथा भ॑र श्येनभृत॒ प्रयां॑सि र॒यिं तुञ्जा॑नो अ॒भि वाज॑मर्ष ॥

पदपाठः

परि॑ । हि । स्म॒ । पु॒रु॒ऽहू॒तः । जना॑नाम् । विश्वा॑ । अस॑रत् । भोज॑ना । पू॒यमा॑नः ।
अथ॑ । आ । भ॒र॒ । श्ये॒न॒ऽभृ॒त॒ । प्रयां॑सि । र॒यिम् । तुञ्जा॑नः । अ॒भि । वाज॑म् । अ॒र्ष॒ ॥

सायणभाष्यम्

अयं पर्यसरत् परिसरति जनानां अर्थाय । विश्वा सर्वाणि भोजना भोजनानि अन्ना- नि धनानिवा । कीदृशः पुरुहूतः बहुभिराहूतः पूयमानः शोध्यमानः । अथप्रत्यक्षकृतः अथे- दानीं हे श्येनभृत श्येनेनाहृत सोम त्वं प्रयांस्यन्नानि आभर आहर रयिं धनं तुंजानः ददानः वाजमन्नरसं अभ्यर्ष अभिगच्छ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३