मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८७, ऋक् ७

संहिता

ए॒ष सु॑वा॒नः परि॒ सोमः॑ प॒वित्रे॒ सर्गो॒ न सृ॒ष्टो अ॑दधाव॒दर्वा॑ ।
ति॒ग्मे शिशा॑नो महि॒षो न शृङ्गे॒ गा ग॒व्यन्न॒भि शूरो॒ न सत्वा॑ ॥

पदपाठः

ए॒षः । सि॒वा॒नः । परि॑ । सोमः॑ । प॒वित्रे॑ । सर्गः॑ । न । सृ॒ष्टः । अ॒द॒धा॒व॒त् । अर्वा॑ ।
ति॒ग्मे इति॑ । शिशा॑नः । म॒हि॒षः । न । शृङ्गे॒ इति॑ । गाः । ग॒व्यन् । अ॒भि । शूरः॑ । न । सत्वा॑ ॥

सायणभाष्यम्

एषसुवानः सूयमानः अर्वा अरणकुशलः सोमः सर्गोनसृष्टः विसृष्टोश्वइव पवित्रे पर्य- दधावत् परिधावति । किंच तिग्मे तीक्ष्णे श्रृंगे शिशानः तीक्ष्णीकुर्वन् महिषोन महान् महिषाख्योसगइव । तथान्यदृष्टान्तः—गा गव्यन् प्रभूतागाइच्छन् शूरोन शूरइव एतौ महि- षशूरौ यथा प्रतिबृद्धौ शीघ्रं धावतः तद्वत् सत्वा सदनशीलोयं अभिगच्छतीतिशेषः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३