मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८७, ऋक् ९

संहिता

उ॒त स्म॑ रा॒शिं परि॑ यासि॒ गोना॒मिन्द्रे॑ण सोम स॒रथं॑ पुना॒नः ।
पू॒र्वीरिषो॑ बृह॒तीर्जी॑रदानो॒ शिक्षा॑ शचीव॒स्तव॒ ता उ॑प॒ष्टुत् ॥

पदपाठः

उ॒त । स्म॒ । रा॒शिम् । परि॑ । या॒सि॒ । गोना॑म् । इन्द्रे॑ण । सो॒म॒ । स॒ऽरथ॑म् । पु॒ना॒नः ।
पू॒र्वीः । इषः॑ । बृ॒ह॒तीः । जी॒र॒दा॒नो॒ इति॑ जीरऽदानो । शिक्ष॑ । श॒ची॒ऽवः॒ । तव॑ । ताः । उ॒प॒ऽस्तुत् ॥

सायणभाष्यम्

उतस्म अपिच खलु हेसोम पुनानः पूयमानोगोनां गवांराशिंसमूहं पणिभिरपहृतं परि यासि परिगच्छसि । कथंभूतःसन् उच्यते इन्द्रेणसह रथमेकमेवरथं आस्थाय । हे जीरदानो क्षिप्रदानसोम उपस्तुत् उपस्तूयमानस्त्वं पूर्वीर्बह्वीः बृहतीर्महतीरिषः उक्तलक्षणान्यन्नानि शिक्ष देहि । हेशचीवः अन्नवन् ताइषःतवस्वभूता इतिशेषः ॥ ९ ॥

अयं सोमइत्यष्टर्चं तृतीयंसूक्तं ऋष्याद्याःपूर्ववत् । अयं सोमोष्टावित्यनुक्रान्तम् । गतोवि- नियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३