मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८८, ऋक् १

संहिता

अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्वे॒ तुभ्यं॑ पवते॒ त्वम॑स्य पाहि ।
त्वं ह॒ यं च॑कृ॒षे त्वं व॑वृ॒ष इन्दुं॒ मदा॑य॒ युज्या॑य॒ सोम॑म् ॥

पदपाठः

अ॒यम् । सोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । सु॒न्वे॒ । तुभ्य॑म् । प॒व॒ते॒ । त्वम् । अ॒स्य॒ । पा॒हि॒ ।
त्वम् । ह॒ । यम् । च॒कृ॒षे । त्वम् । व॒वृ॒षे । इन्दु॑म् । मदा॑य । युज्या॑य । सोम॑म् ॥

सायणभाष्यम्

हे इंद्रअयं सोमः तुभ्यं त्वदर्थं सुन्वे सूयते सुनोतेः कर्मार्थे लटी लोपस्तआत्मनेपदे- ष्विति तलोपः तुभ्यं त्वदर्थमेव पवते पूयते त्वंचास्य अमुंपाहि पिब त्वंह यं इंदुं सोमं चकृषे करोषि त्वंच यं ववृषे वृतवानसि किमर्थं मदाय युज्याय सहायाय सोमं इन्द्राय बलकरत्वात् सहायइतिप्रसिद्धं यमेवंकरोषित्वं तंपाहीतिसमन्वयः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४