मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८८, ऋक् २

संहिता

स ईं॒ रथो॒ न भु॑रि॒षाळ॑योजि म॒हः पु॒रूणि॑ सा॒तये॒ वसू॑नि ।
आदीं॒ विश्वा॑ नहु॒ष्या॑णि जा॒ता स्व॑र्षाता॒ वन॑ ऊ॒र्ध्वा न॑वन्त ॥

पदपाठः

सः । ई॒मिति॑ । रथः॑ । न । भु॒रि॒षाट् । अ॒यो॒जि॒ । म॒हः । पु॒रूणि॑ । सा॒तये॑ । वसू॑नि ।
आत् । ई॒मिति॑ । विश्वा॑ । न॒हु॒ष्या॑णि । जा॒ता । स्वः॑ऽसाता । वने॑ । ऊ॒र्ध्वा । न॒व॒न्त॒ ॥

सायणभाष्यम्

सईं सोयं सोमः भुरिषाट् भूरिभारस्यसोढा रथोन रथइव भुरिषाट् प्रभूतस्य भारस्य सोढा अयोजि युज्यते । कीदृशः समहोमहान् किमर्थमयोजि पुरूणि बहूनि वसूनि धनानि सातयेस्मभ्यंदातुम् । आदींयोगानंतरं विश्वा विश्वानि सर्वाणि नहुष्याणि नहुषोमनुष्यास्ते- यां संबंधीनि जाता जातानि अस्मद्विरोधीनि ऊर्ध्वा उन्मुखानि वने वननीये स्वर्षाता स्वर्षातौ संग्रामनामैतत् स्वर्गलाभयुक्ते । संग्रामे नवंत गच्छन्तु । नवितिर्गतिकर्मा यद्वा सोमं संग्रामे युद्धार्थिनः संगच्छन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४