मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८८, ऋक् ३

संहिता

वा॒युर्न यो नि॒युत्वाँ॑ इ॒ष्टया॑मा॒ नास॑त्येव॒ हव॒ आ शम्भ॑विष्ठः ।
वि॒श्ववा॑रो द्रविणो॒दा इ॑व॒ त्मन्पू॒षेव॑ धी॒जव॑नोऽसि सोम ॥

पदपाठः

वा॒युः । न । यः । नि॒युत्वा॑न् । इ॒ष्टऽया॑मा । नास॑त्याऽइव । हवे॑ । आ । शम्ऽभ॑विष्ठः ।
वि॒श्वऽवा॑रः । द्र॒वि॒णो॒दाःऽइ॑व । त्मन् । पू॒षाऽइ॑व । धी॒ऽजव॑नः । अ॒सि॒ । सो॒म॒ ॥

सायणभाष्यम्

यः सोमोनियुत्वान् नियुतोवायोरश्वाः तद्वान् वायुर्न वायुरिव इष्टयामा इष्टगमनः । नासत्येव अश्विनाविव हवे ह्वमह्वानमाकर्ण्य आसर्वतः शंभविष्ठः सुखस्यभावयितृतमः द्रविणोदातेव त्मन् आत्मनि विश्ववारोविश्वैर्वरणीयोभवति तद्वद्विश्ववारोसि । पूषेवपोषकः सवितेवधीजवनोवेगोसि । यद्वा कर्मणांप्रवर्तयितासि हे सोम ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४