मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८८, ऋक् ४

संहिता

इन्द्रो॒ न यो म॒हा कर्मा॑णि॒ चक्रि॑र्ह॒न्ता वृ॒त्राणा॑मसि सोम पू॒र्भित् ।
पै॒द्वो न हि त्वमहि॑नाम्नां ह॒न्ता विश्व॑स्यासि सोम॒ दस्यो॑ः ॥

पदपाठः

इन्द्रः॑ । न । यः । म॒हा । कर्मा॑णि । चक्रिः॑ । ह॒न्ता । वृ॒त्राणा॑म् । अ॒सि॒ । सो॒म॒ । पूः॒ऽभित् ।
पै॒द्वः । न । हि । त्वम् । अहि॑ऽनाम्नाम् । ह॒न्ता । विश्व॑स्य । अ॒सि॒ । सो॒म॒ । दस्योः॑ ॥

सायणभाष्यम्

इन्द्रोन इन्द्रइव यस्त्वं महा महान्ति कर्माणि चक्रिः ताच्छील्येन करोषि सत्वं हे- सोम वृत्राणां शत्रूणां हन्तासि भवसि । तथा पूर्भित् पुरांभेत्तासि । किंच पैद्वोनहि अश्व- इवखलु अहिनाम्नां हन्ताभवसि । आगत्यहन्तीत्यहिः तन्नामकानामित्यर्थः । नकेवलंतेषा- मेव अपितु विश्वस्यापि सर्वस्यापि दस्योः उपक्षपयितुः शत्रोर्हन्तासि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४