मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८८, ऋक् ५

संहिता

अ॒ग्निर्न यो वन॒ आ सृ॒ज्यमा॑नो॒ वृथा॒ पाजां॑सि कृणुते न॒दीषु॑ ।
जनो॒ न युध्वा॑ मह॒त उ॑प॒ब्दिरिय॑र्ति॒ सोम॒ः पव॑मान ऊ॒र्मिम् ॥

पदपाठः

अ॒ग्निः । न । यः । वने॑ । आ । सृ॒ज्यमा॑नः । वृथा॑ । पाजां॑सि । कृ॒णु॒ते॒ । न॒दीषु॑ ।
जनः॑ । न । युध्वा॑ । म॒ह॒तः । उ॒प॒ब्दिः । इय॑र्ति । सोमः॑ । पव॑मानः । ऊ॒र्मिम् ॥

सायणभाष्यम्

अग्निर्न अग्निरिव यः सोमोवने अरण्ये आसृज्यमानः वनसंबन्धी अग्निः यथा बलानि कुरुते एवंयः सोमोवृषा अनायासेन नदीष्वान्तरिक्षाणि पाजांसि कृणुते कुरुते । किंच युध्वा युद्धस्यकर्ता जनोन शूरो मनुष्यइव महतः शत्रोरुपब्दिः वाङ्मामैतत् शब्दयितासन् पवमानः पूयमानः सोमः ऊर्मिं प्रवृद्धं रसमियर्ति प्रेरयति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४