मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८८, ऋक् ६

संहिता

ए॒ते सोमा॒ अति॒ वारा॒ण्यव्या॑ दि॒व्या न कोशा॑सो अ॒भ्रव॑र्षाः ।
वृथा॑ समु॒द्रं सिन्ध॑वो॒ न नीची॑ः सु॒तासो॑ अ॒भि क॒लशाँ॑ असृग्रन् ॥

पदपाठः

ए॒ते । सोमाः॑ । अति॑ । वारा॑णि । अव्या॑ । दि॒व्या । न । कोशा॑सः । अ॒भ्रऽव॑र्षाः ।
वृथा॑ । स॒मु॒द्रम् । सिन्ध॑वः । न । नीचीः॑ । सु॒तासः॑ । अ॒भि । क॒लशा॑न् । अ॒सृ॒ग्र॒न् ॥

सायणभाष्यम्

एते पूयमानाः सोमाः अव्या अविमयानि वाराणि वालानि अतिगच्छन्तीतिशॆषः तत्र दृष्टान्तः—दिव्यान कोशासः दिविभवाः कोशाः आपइव ताविशेष्यन्ते अभ्रवर्षाः अभ्रैर्वृष्य माणाः । किंच वृथा अनायासेन समृद्रं सिंधवोन नद्यइव नीचीः नीचीनाग्राः सुतासोभि- षुताः सोमाः कलशानभ्यसृग्रन् अभिगच्छन्ति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४