मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८८, ऋक् ७

संहिता

शु॒ष्मी शर्धो॒ न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् ।
आपो॒ न म॒क्षू सु॑म॒तिर्भ॑वा नः स॒हस्रा॑प्साः पृतना॒षाण्न य॒ज्ञः ॥

पदपाठः

शु॒ष्मी । शर्धः॑ । न । मारु॑तम् । प॒व॒स्व॒ । अन॑भिऽशस्ता । दि॒व्या । यथा॑ । विट् ।
आपः॑ । न । म॒क्षु । सु॒ऽम॒तिः । भ॒व॒ । नः॒ । स॒हस्र॑ऽअप्साः । पृ॒त॒ना॒षाट् । न । य॒ज्ञः ॥

सायणभाष्यम्

हे सोम शुष्मी शुष्मं बलं शोषणात् बलवांस्त्वं मारुतं शर्धोन मरुतां बलमिव पवस्व । तत्रदृष्टान्तमेवस्पष्टयति—यथा दिव्याविट् प्रजा अनभिशस्ता अभिशासोनिंदा अनिंदिता पवते । मरुतोवैदेवानांविशइतिहिब्राह्मणम् । किंच आपोन उदकानीव मक्षु क्षिप्रं पवमानस्त्वं सुमतिर्भव नोस्माकम् । किंच सहस्राप्साः अप्सइतिरूपनाम बहुरूपस्त्वं पृतनाषाट्न पृतनानामभिभवितेन्द्रइव यज्ञो यष्टव्योभवसीति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४