मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८९, ऋक् ३

संहिता

सिं॒हं न॑सन्त॒ मध्वो॑ अ॒यासं॒ हरि॑मरु॒षं दि॒वो अ॒स्य पति॑म् ।
शूरो॑ यु॒त्सु प्र॑थ॒मः पृ॑च्छते॒ गा अस्य॒ चक्ष॑सा॒ परि॑ पात्यु॒क्षा ॥

पदपाठः

सिं॒हम् । न॒स॒न्त॒ । मध्वः॑ । अ॒यास॑म् । हरि॑म् । अ॒रु॒षम् । दि॒वः । अ॒स्य । पति॑म् ।
शूरः॑ । यु॒त्ऽसु । प्र॒थ॒मः । पृ॒च्छ॒ते॒ । गाः । अस्य॑ । चक्ष॑सा । परि॑ । पा॒ति॒ । उ॒क्षा ॥

सायणभाष्यम्

सिंहं शत्रूणां हिंसकं सिंहसदृशं मध्वउदकस्य अयासं प्रेरकं हरिं हरितवर्णं अरुषं रूप वन्तं अस्यदिवोद्युलोकस्यपतिं पालकं सोमं नसंत व्याप्नुवन्ति । यजमानाः । युत्सु संग्रा- मेषु शूरः प्रथमोदेवानांमध्ये मुख्यः सोमोगाः पणिभिरपहृताः पृच्छतेमार्गज्ञान् पणीन् हत्वा गालब्धुं गोमार्गं पृच्छतीत्यर्थः । किंच अस्यचक्षसासामर्थ्येन उक्षा सेक्तादेवेन्द्रः प- रिपाति विश्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५