मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८९, ऋक् ४

संहिता

मधु॑पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे॑ युञ्जन्त्युरुच॒क्र ऋ॒ष्वम् ।
स्वसा॑र ईं जा॒मयो॑ मर्जयन्ति॒ सना॑भयो वा॒जिन॑मूर्जयन्ति ॥

पदपाठः

मधु॑ऽपृष्ठम् । घो॒रम् । अ॒यास॑म् । अश्व॑म् । रथे॑ । यु॒ञ्ज॒न्ति॒ । उ॒रु॒ऽच॒क्रे । ऋ॒ष्वम् ।
स्वसा॑रः । ई॒म् । जा॒मयः॑ । म॒र्ज॒य॒न्ति॒ । सऽना॑भयः । वा॒जिन॑म् । ऊ॒र्ज॒य॒न्ति॒ ॥

सायणभाष्यम्

मधुपृष्ठं मधुरपृष्ठभागं घोरंभयानकं अयासं गन्तारं ऋष्वं दर्शनीयं उक्तलक्षणमश्व- मश्वस्थानीयं व्याप्तं सोमं उरुचक्रे प्रभूतचक्रे रथे यथाश्वं युंजंति रथिकास्तद्वत् प्रभूतच- णेरथे रंहणस्यसाधने यज्ञाख्ये रथेयुंजंति योजयंत्यध्वर्य्वादयः । किंच ईमेनंसोमं स्वसारः स्वयंसारिण्यः परस्परं स्वसृभूतावा जामयोबन्धुभूता अंगुलयः एकहस्तनिष्पन्नत्वात् स्व- सृत्वंजामित्वं च एवंभूतामार्जयन्ति शोधयन्ति । तदेवाह सनाभयः समानबंधना वाजिनं बलवन्तं सोममूर्जयन्ति बलिनंकुर्वन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५