मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८९, ऋक् ५

संहिता

चत॑स्र ईं घृत॒दुहः॑ सचन्ते समा॒ने अ॒न्तर्ध॒रुणे॒ निष॑त्ताः ।
ता ई॑मर्षन्ति॒ नम॑सा पुना॒नास्ता ईं॑ वि॒श्वत॒ः परि॑ षन्ति पू॒र्वीः ॥

पदपाठः

चत॑स्रः । ई॒म् । घृ॒त॒ऽदुहः॑ । स॒च॒न्ते॒ । स॒मा॒ने । अ॒न्तः । ध॒रुणे॑ । निऽस॑त्ताः ।
ताः । ई॒म् । अ॒र्ष॒न्ति॒ । नम॑सा । पु॒ना॒नाः । ताः । ई॒म् । वि॒श्वतः॑ । परि॑ । स॒न्ति॒ । पू॒र्वीः ॥

सायणभाष्यम्

चतस्रो घृतदुहो घृतदोग्ध्र्यः गावईमेनं सोमं सचन्ते सेवन्ते । कीदृश्यस्ताः समाने एकस्मिन् धरुणे सर्वेषांधारके अन्तः अन्तरिक्षे निषत्ताः निषण्णाः ताघृतदुहः ईमेनमर्षन्ति प्राप्नुवन्ति नमसान्नेन पुनानाः पूयमानाः सत्यः ताः पूर्वीर्बह्वयः प्रभूतागावोविश्वतः सर्व- तः परिषंति परिभवन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५