मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८९, ऋक् ६

संहिता

वि॒ष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्या विश्वा॑ उ॒त क्षि॒तयो॒ हस्ते॑ अस्य ।
अस॑त्त॒ उत्सो॑ गृण॒ते नि॒युत्वा॒न्मध्वो॑ अं॒शुः प॑वत इन्द्रि॒याय॑ ॥

पदपाठः

वि॒ष्ट॒म्भः । दि॒वः । ध॒रुणः॑ । पृ॒थि॒व्याः । विश्वाः॑ । उ॒त । क्षि॒तयः॑ । हस्ते॑ । अ॒स्य॒ ।
अस॑त् । ते॒ । उत्सः॑ । गृ॒ण॒ते । नि॒युत्वा॑न् । मध्वः॑ । अं॒शुः । प॒व॒ते॒ । इ॒न्द्रि॒याय॑ ॥

सायणभाष्यम्

अयं सोमोदिवोद्युलोकस्य विष्टंभभूतः यथा गृहस्यस्तंभः तद्वत् तथा पृथिव्याधरुणो- धारकः उतापिच विश्वाः सर्वाः क्षितयः प्रजाः अस्यसोमस्य हस्तेभवन्ति उत्सः उत्सरंत्य स्मात्कामाइत्युत्सः सोमः सगृणत्ते स्तुवते ते तुभ्यं नियुत्वानश्ववान् असत् भवतु । ससो- मोमध्वः मधु कर्मणिषष्ठी मधुररसः अंशुः सोमः । अंशुःशमष्टमात्रोभवती तियास्कः । य- इन्द्रियाय पवते पूयतेभिषूयते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५