मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८९, ऋक् ७

संहिता

व॒न्वन्नवा॑तो अ॒भि दे॒ववी॑ति॒मिन्द्रा॑य सोम वृत्र॒हा प॑वस्व ।
श॒ग्धि म॒हः पु॑रुश्च॒न्द्रस्य॑ रा॒यः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

पदपाठः

व॒न्वन् । अवा॑तः । अ॒भि । दे॒वऽवी॑तिम् । इन्द्रा॑य । सो॒म॒ । वृ॒त्र॒ऽहा । प॒व॒स्व॒ ।
श॒ग्धि । म॒हः । पु॒रु॒ऽच॒न्द्रस्य॑ । रा॒यः । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥

सायणभाष्यम्

वन्वन् सन् देववीतिं देवानांपानार्थं हे सोम इन्द्राय इन्द्रार्थं वृत्रहा वृत्रस्यहन्ता अवातः त्वं अभिपवस्व क्षर । कथंभूतः त्वं शग्धि शक्तिमान् महोमहानसि त्वत्प्रसा- दाद्वयं पुरुश्चन्द्रस्य बह्वाह्वादकस्य सुवीर्यस्य शोभनावीरायस्मिन् तादृशस्य राये धनस्य पतयः स्याम ॥ ७ ॥

प्रहिन्वानइति षळृचंपंचमंसूक्तं मैत्रावरुणेर्वसिष्ठस्यार्षं त्रैष्टुभं पवमानसोमदेवताकम् । तथाचानुक्रान्तम् । प्रहिन्वानः षड्वसिष्ठइति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५