मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९०, ऋक् २

संहिता

अ॒भि त्रि॑पृ॒ष्ठं वृष॑णं वयो॒धामा॑ङ्गू॒षाणा॑मवावशन्त॒ वाणी॑ः ।
वना॒ वसा॑नो॒ वरु॑णो॒ न सिन्धू॒न्वि र॑त्न॒धा द॑यते॒ वार्या॑णि ॥

पदपाठः

अ॒भि । त्रि॒ऽपृ॒ष्ठम् । वृष॑णम् । व॒यः॒ऽधाम् । आ॒ङ्गू॒षाणा॑म् । अ॒वा॒व॒श॒न्त॒ । वाणीः॑ ।
वना॑ । वसा॑नः । वरु॑णः । न । सिन्धू॑न् । वि । र॒त्न॒ऽधाः । द॒य॒ते॒ । वार्या॑णि ॥

सायणभाष्यम्

त्रिपृष्ठं त्रीणिपृष्ठानि स्तोत्राणि द्रोणकलशादिस्थानानिवा सवनानि वा यस्यसतथोक्तः । तं वृषणं वर्षकं वयोधामन्नस्यदातारं सोमं आंगूषाणां आघोषवतां स्तोतॄणां वाणीर्वाचः अभ्यवावशन्त शब्दयन्ते । वना वनानि उदकानि वसानः आच्छादयन् वरुणोन वरुण- इव सिन्धूनाच्छादयति तद्वत् रत्नधाः रत्नानांदाता सोमोवार्याणि धनानि विदयते प्रय- च्छति स्तोतृभ्यः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६