मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९०, ऋक् ४

संहिता

उ॒रुग॑व्यूति॒रभ॑यानि कृ॒ण्वन्त्स॑मीची॒ने आ प॑वस्वा॒ पुरं॑धी ।
अ॒पः सिषा॑सन्नु॒षस॒ः स्व१॒॑र्गाः सं चि॑क्रदो म॒हो अ॒स्मभ्यं॒ वाजा॑न् ॥

पदपाठः

उ॒रुऽग॑व्यूतिः । अभ॑यानि । कृ॒ण्वन् । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । आ । प॒व॒स्व॒ । पुर॑न्धी॒ इति॒ पुर॑म्ऽधी ।
अ॒पः । सिसा॑सन् । उ॒षसः॑ । स्वः॑ । गाः । सम् । चि॒क्र॒दः॒ । म॒हः । अ॒स्मभ्य॑म् । वाजा॑न् ॥

सायणभाष्यम्

हे सोम उरुगव्यूतिर्विस्तीर्णमार्गस्त्वं अभयानि स्तोतृभ्यः कृण्वन् कुर्वन् पुरंधी इदं द्यावापृथिव्योर्नाम । ते समीचीने स्वंगतेकुर्वन् आपवस्व आक्षर । अपः उषसः स्वः आ- दित्यं गारश्मींश्चसिषासन् पुष्ट्यर्थं संभक्तुमिच्छन् संचिक्रदः सरन्दसे । महोमहतः महा- न्ति वाजान् अन्नानिअस्मभ्यंदातुमितिशेषः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६