मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९१, ऋक् १

संहिता

अस॑र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता॑ प्रथ॒मो म॑नी॒षी ।
दश॒ स्वसा॑रो॒ अधि॒ सानो॒ अव्येऽज॑न्ति॒ वह्निं॒ सद॑ना॒न्यच्छ॑ ॥

पदपाठः

अस॑र्जि । वक्वा॑ । रथ्ये॑ । यथा॑ । आ॒जौ । धि॒या । म॒नोता॑ । प्र॒थ॒मः । म॒नी॒षी ।
दश॑ । स्वसा॑रः । अधि॑ । सानौ॑ । अव्ये॑ । अज॑न्ति । वह्नि॑म् । सद॑नानि । अच्छ॑ ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहंवन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

तृतीयं श्रुतितत्वज्ञः सप्तमस्याष्टकस्यसः । व्याख्याय सायणामात्यश्चतुर्थं व्याचिकीर्षति ॥ २ ॥

तत्रासर्जीति षळृचमष्टमंसूक्तं मारीचस्य कश्यपस्यार्पं त्रैष्टुभं पवमानसोमदेवताकम् । असर्जिकश्यपइत्यनुक्रान्तम् । गतोविनियोगः ।

/ वक्वा शब्दायमानः वचपरिभाषणे वनिप् । एतादृशः पवमानः सोमः आजौ अजन्ति कर्मार्थमृत्विजइति आजिर्यज्ञः । तस्मिन् धिया कर्मणा स्तोत्रेणवा साकं असर्जि सृज्यते पात्रेष्विति । तत्र दृष्टान्तः—रथ्ये रथार्हे आजौ संग्रामनामैतत् । अजन्ति प्रक्षिपंत्यायुधा- न्यग्रेसि तस्मिन् अश्वो यथा धिया अंगुल्या मृज्यते तद्वत् । कीदृशः मनोता यस्मिन्देवा- नां मनांसि ओतानि प्रोतानि सः । तथाचब्राह्मणं—तस्मिन्हितेषांमनांस्योतानीति । प्रथमः सर्वेषां देवानांमुख्यः मनीषी मनसईषा मनीषा स्तुतिः तद्वान् दश स्वसारः दशसंख्याका अंगुलयः सदबानि यज्ञगृहाणि अच्छाभिमुखीकृत्य वह्निं वोढारं सोमं सानौ समुच्छ्रिते । अधिः सप्तम्यर्थानुवादः । अव्ये अविभवे अविवालेन कृते पवित्रे अजन्ति प्रेरयन्ति । अजगतिक्षेपणयोः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः