मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९१, ऋक् २

संहिता

वी॒ती जन॑स्य दि॒व्यस्य॑ क॒व्यैरधि॑ सुवा॒नो न॑हु॒ष्ये॑भि॒रिन्दु॑ः ।
प्र यो नृभि॑र॒मृतो॒ मर्त्ये॑भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः ॥

पदपाठः

वी॒ती । जन॑स्य । दि॒व्यस्य॑ । क॒व्यैः । अधि॑ । सु॒वा॒नः । न॒हु॒ष्ये॑भिः । इन्दुः॑ ।
प्र । यः । नृऽभिः॑ । अ॒मृतः॑ । मर्त्ये॑भिः । म॒र्मृ॒जा॒नः । अवि॑ऽभिः । गोभिः॑ । अ॒त्ऽभिः ॥

सायणभाष्यम्

कव्यैः साधुभिः स्तोतृभिः नहुष्येभिर्मनुष्यैः सुवानः अभिषूयमाणः इंदुः सोमः दिव्यस्य दिविभवस्य जनस्य देवगणस्य वीती सुपांसुलुगिति चतुर्थ्याःपूर्वसवर्णदीर्घः सोम भक्षणार्थं यज्ञमधिगच्छति । किंच अमृतः मरणधर्मरहितोयः सोमः नृभिः कर्मनेतृभिः मर्त्येभिः मर्त्यैः अविभिरविमयैः पवित्रैः तथा गोभिरानडुहैः अधिषवणचर्मभिः । यद्वा गोविकारैः क्षीरादिभिः अद्भिःवसतीवर्यादिभिरुदकैश्च मर्मृजानः भृशंशोध्यमानःसन् यज्ञंप्रति गच्छति । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः