मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९२, ऋक् २

संहिता

अच्छा॑ नृ॒चक्षा॑ असरत्प॒वित्रे॒ नाम॒ दधा॑नः क॒विर॑स्य॒ योनौ॑ ।
सीद॒न्होते॑व॒ सद॑ने च॒मूषूपे॑मग्म॒न्नृष॑यः स॒प्त विप्रा॑ः ॥

पदपाठः

अच्छ॑ । नृ॒ऽचक्षाः॑ । अ॒स॒र॒त् । प॒वित्रे॑ । नाम॑ । दधा॑नः । क॒विः । अ॒स्य॒ । योनौ॑ ।
सीद॑न् । होता॑ऽइव । सद॑ने । च॒मूषु॑ । उप॑ । ई॒म् । अ॒ग्म॒न् । ऋष॑यः । स॒प्त । विप्राः॑ ॥

सायणभाष्यम्

नृचक्षाः नृणांद्रष्टा कविः क्रान्तप्रज्ञः सोमः नाम वसतीवर्याख्यमुदकं दधानोधारयन् अस्य एतादृशस्यात्मनः योनौ स्थाने पवित्रे अच्छासरत् अभितः सरति ततः सदने सीदं- त्यत्रेति सदनोयज्ञः तस्मिन् होतेव होतायथा देवान् स्तोतुमुपविशति तद्वत् देवानागन्तुं सीदन् उपविशन् सोमः चमूषु चमन्ति चम्वोग्रहादयः तेषु अभिसर । अनंतरं सप्त सप्त- संख्याका विप्रामेधाविनः भरद्वाजः कश्यपोगोतमोत्रिर्मिश्वामित्रोजमदग्निर्वसिष्ठइत्येतेऋषयः ईमेनंसोमं उपाग्मन् स्तोत्रैरुपगच्छन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः