मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९२, ऋक् ५

संहिता

तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे॑ का॒रवः॑ सं॒नस॑न्त ।
ज्योति॒र्यदह्ने॒ अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीक॑म् ॥

पदपाठः

तत् । नु । स॒त्यम् । पव॑मानस्य । अ॒स्तु॒ । यत्र॑ । विश्वे॑ । का॒रवः॑ । स॒म्ऽनस॑न्त ।
ज्योतिः॑ । यत् । अह्ने॑ । अकृ॑णोत् । ऊं॒ इति॑ । लो॒कम् । प्र । आ॒व॒त् । मनु॑म् । दस्य॑वे । कः॒ । अ॒भीक॑म् ॥

सायणभाष्यम्

सत्यं सत्यभूतं तत्प्रसिद्धस्य पवमानस्य सोमस्यस्थानं नुक्षिप्रं अस्माकमस्तु यत्र यस्मिन् स्थाने विश्वेसर्वे कारवः स्तोतारः संनसन्त स्तोतुं संगच्छंते तत् स्थानमस्तु । अस्यसोमस्य यत् ज्योतिः अह्ने दिवसाय लोकमालोकं प्रकाशं अकृणोत् करोति । उइत्यवधारणे । तत् ज्योतिः मनुं एतन्नामानं राजार्षिं प्रावत् प्रकर्षेणारक्षत् । तथा सोमः स्वीयंतेजः दस्यवे सर्वस्योपक्षपयित्रे असुराय अभीकं अभिगमनशीलं कःअका- र्षीत् करोतेर्लुङि मंत्रेघसेति च्लेर्लुक् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः