मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९३, ऋक् २

संहिता

सं मा॒तृभि॒र्न शिशु॑र्वावशा॒नो वृषा॑ दधन्वे पुरु॒वारो॑ अ॒द्भिः ।
मर्यो॒ न योषा॑म॒भि नि॑ष्कृ॒तं यन्त्सं ग॑च्छते क॒लश॑ उ॒स्रिया॑भिः ॥

पदपाठः

सम् । मा॒तृऽभिः॑ । न । शिशुः॑ । वा॒व॒शा॒नः । वृषा॑ । द॒ध॒न्वे॒ । पु॒रु॒ऽवारः॑ । अ॒त्ऽभिः ।
मर्यः॑ । न । योषा॑म् । अ॒भि । निः॒ऽकृ॒तम् । यन् । सम् । ग॒च्छ॒ते॒ । क॒लशे॑ । उ॒स्रिया॑भिः ॥

सायणभाष्यम्

वावशानः देवान् कामयमानः वृषा कामानांवर्षकः अतएव पुरुवारः बहुर्भिर्वरणीयः सोमः अद्भिः मातृभूताभिः वसतीवरीभिः संदधन्वे संधार्यते । तत्रदृष्टान्तः—मातृभिर्नशि- शुः कामयमानः पुत्रोयथा मातृभिः पयःप्रदानेन संधार्यते । धविर्गत्यर्थः कर्मणिलिटिरूपम् । मर्योन मनुष्योयथा योषां युवतिं अभिगच्छति तद्वत् निष्कृतं संस्कृतं स्वस्थानं अभियन् अभिगच्छन् कलशे द्रोणाभिधाने अस्रियाभिरद्भिः गोविकारैः क्षीरादिभिर्वासंगच्छते । गमेरकर्मकात् समोगम्यृच्छीत्यात्मनेपदं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः