मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९४, ऋक् १

संहिता

अधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभ॒ः स्पर्ध॑न्ते॒ धिय॒ः सूर्ये॒ न विशः॑ ।
अ॒पो वृ॑णा॒नः प॑वते कवी॒यन्व्र॒जं न प॑शु॒वर्ध॑नाय॒ मन्म॑ ॥

पदपाठः

अधि॑ । यत् । अ॒स्मि॒न् । वा॒जिनि॑ऽइव । शुभः॑ । स्पर्ध॑न्ते । धियः॑ । सूर्ये॑ । न । विशः॑ ।
अ॒पः । वृ॒णा॒नः । प॒व॒ते॒ । क॒वि॒ऽयन् । व्र॒जम् । न । प॒शु॒ऽवर्ध॑नाय । मन्म॑ ॥

सायणभाष्यम्

यद्यदास्मिन् सोमे वाजिनीव शुभः अश्वेयथा वस्त्रप्रभृत्यलंकाराभवन्ति । यदावास्मिन् सोमे सूर्येन यथासूर्ये विशोरश्मयउदिताभवन्ति तदा धियोंगुलयः अधिस्पर्धन्ते अहंपुरस्ता च्छोधयामि अहंपुरस्ताच्छोधयामीत्यहमहमिकया उपतिष्ठन्ति । ततोयंसोमः अपोवसतीवरी र्वृणानः आच्छादयन् पवते पात्रेषु क्षरति कलशानि अधिगच्छति । कीदृशः कवीयन् कविरिवाचरन् । यद्वा कवयःस्तोतारः तानिच्छन् तत्रदृष्टान्तः—व्रजंन मन्म मननीयं गवां गोष्ठं पशुवर्धनाय पशूनां वर्धनाय गोपालः परिगच्छति तथा देवानां प्रीणनाय पात्राणि- प्रति पवतइति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः