मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९५, ऋक् ३

संहिता

अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणा॒ः प्र म॑नी॒षा ई॑रते॒ सोम॒मच्छ॑ ।
न॒म॒स्यन्ती॒रुप॑ च॒ यन्ति॒ सं चा च॑ विशन्त्युश॒तीरु॒शन्त॑म् ॥

पदपाठः

अ॒पाम्ऽइ॑व । इत् । ऊ॒र्मयः॑ । तर्तु॑राणाः । प्र । म॒नी॒षाः । ई॒र॒ते॒ । सोम॑म् । अच्छ॑ ।
न॒म॒स्यन्तीः॑ । उप॑ । च॒ । यन्ति॑ । सम् । च॒ । आ । च॒ । वि॒श॒न्ति॒ । उ॒श॒तीः । उ॒शन्त॑म् ॥

सायणभाष्यम्

अपामिव यथाउदकानामूर्मयस्त्वरन्ते इदितिपूरणः तद्वत् तर्तुराणाः कर्मणि देवान् स्तोतुं त्वरमाणाः । तुरत्वरणे जौहोत्यादिकः यङ्लुगन्तस्यशानचिरूपं अभ्यासस्यअवर्णश्च रेफादेशश्छान्दसः अभ्यस्तस्वरः । तादृशाऋत्विजः मनीषामनसईशित्रीः स्तुतीः सोममच्छ सोमं प्रतिप्रेरते प्रेरयन्ति । नमस्यन्तीः नमस्यन्त्यः सोमं पूजयंत्यः सत्यः तमुपयन्तिच उपगच्छन्ति तमेवसंयन्तिच । चवायोगेप्रथमेतिननिघातः । ततउशतीः कामयमानाः स्तुतयः उशन्तंकामयमानंसोमं आविशंति च प्रविशन्ति च ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः