मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् ४

संहिता

अजी॑त॒येऽह॑तये पवस्व स्व॒स्तये॑ स॒र्वता॑तये बृह॒ते ।
तदु॑शन्ति॒ विश्व॑ इ॒मे सखा॑य॒स्तद॒हं व॑श्मि पवमान सोम ॥

पदपाठः

अजी॑तये । अह॑तये । प॒व॒स्व॒ । स्व॒स्तये॑ । स॒र्वऽता॑तये । बृ॒ह॒ते ।
तत् । उ॒श॒न्ति॒ । विश्वे॑ । इ॒मे । सखा॑यः । तत् । अ॒हम् । व॒श्मि॒ । प॒व॒मा॒न॒ । सो॒म॒ ॥

सायणभाष्यम्

हे सोम अजीतये यथा वयंशत्रुभिरजिताभवेम तथा तेषामजयाय अहतये यथा तैर- हताःस्याम तस्यैच अतएव स्वस्तये अविनाशाय । किंच बृहते सर्वतातये सर्वैरिन्द्रादिभि- र्देवैः स्तूयमानाय यज्ञाय एतदर्थं पवस्व अस्मदभिमुखमागच्छ । पविर्गतिकर्मा । विश्वे सर्वे इमे मदीयाः सखायः स्तोतारः तत् त्वदीयं रक्षणमुशन्ति कामयन्ते । हे पवमान- सोम तद्रक्षणं अहमपि वश्मि कामये ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः