मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् १५

संहिता

ए॒ष स्य सोमो॑ म॒तिभि॑ः पुना॒नोऽत्यो॒ न वा॒जी तर॒तीदरा॑तीः ।
पयो॒ न दु॒ग्धमदि॑तेरिषि॒रमु॒र्वि॑व गा॒तुः सु॒यमो॒ न वोळ्हा॑ ॥

पदपाठः

ए॒षः । स्यः । सोमः॑ । म॒तिऽभिः॑ । पु॒ना॒नः । अत्यः॑ । न । वा॒जी । तर॑ति । इत् । अरा॑तीः ।
पयः॑ । न । दु॒ग्धम् । अदि॑तेः । इ॒षि॒रम् । उ॒रुऽइ॑व । गा॒तुः । सु॒ऽयमः॑ । न । वोळ्हा॑ ॥

सायणभाष्यम्

एषस्यः एतादृशः सोमः मतिभिर्मननसाधनैः स्तोत्रैः पुनानः पूयमानोभवति । यः सोमः अत्योन अतनशीलओवाजी अश्वइव संग्रामे अरातीः अरातीन् शत्रून् तरति इदव- धारणे तरत्येव हिनस्त्येव । यद्वृत्तयोगादनिघातः । किंच अदितेर्गोनामैतत् अदीनायाः गोः इषिरं अन्वे षणीयं दुग्धंपयोन क्षीरं यथा पूतं भवति एवं सोमः परिशुद्धः । अपिच उर्विव् सुपांसुलुगिति सोर्लुक् । उरुविस्तीर्णो गातुः मार्गइव सर्वैः समाश्रयणीयः तथा वोह्ळान वोढाअश्वइव सुयमः सुष्ठुनियन्तुं शक्योयथाभवति तद्वतयंसोमः सोतृभि- र्नियन्तव्योभवति ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः