मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् २३

संहिता

अ॒प॒घ्नन्ने॑षि पवमान॒ शत्रू॑न्प्रि॒यां न जा॒रो अ॒भिगी॑त॒ इन्दु॑ः ।
सीद॒न्वने॑षु शकु॒नो न पत्वा॒ सोमः॑ पुना॒नः क॒लशे॑षु॒ सत्ता॑ ॥

पदपाठः

अ॒प॒ऽघ्नन् । ए॒षि॒ । प॒व॒मा॒न॒ । शत्रू॑न् । प्रि॒याम् । न । जा॒रः । अ॒भिऽगी॑तः । इन्दुः॑ ।
सीद॑न् । वने॑षु । श॒कु॒नः । न । पत्वा॑ । सोमः॑ । पु॒ना॒नः । क॒लशे॑षु । सत्ता॑ ॥

सायणभाष्यम्

हे पवमान पूयमान सोम अभिगीतः सोतृभिरभिष्टुतः इन्दुः पात्रेषु क्षरन् त्वंशत्रूनप- घ्नन् अपहिंसन् एषि आगच्छसि । कथमिव जारः प्रियांन प्रियतमामसतींस्त्रीं अन्यान् बाधमानःसन् यथाभिगच्छति तद्वत् । पत्वा पतनशीलः शकुनोन यथा शकुनोवनेषु वृक्षेषु सीदन् भवति तद्वत् पतनशीलः पुनानः पूयमानः सोमः कलशेषु सत्ता सदनशी- लो निषण्णोभवति । सदेस्ताच्छीलिकस्तृन् एकाचइतीट्प्रतिषेधः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०