मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् १

संहिता

अ॒स्य प्रे॒षा हे॒मना॑ पू॒यमा॑नो दे॒वो दे॒वेभि॒ः सम॑पृक्त॒ रस॑म् ।
सु॒तः प॒वित्रं॒ पर्ये॑ति॒ रेभ॑न्मि॒तेव॒ सद्म॑ पशु॒मान्ति॒ होता॑ ॥

पदपाठः

अ॒स्य । प्रे॒षा । हे॒मना॑ । पू॒यमा॑नः । दे॒वः । दे॒वेभिः॑ । सम् । अ॒पृ॒क्त॒ । रस॑म् ।
सु॒तः । प॒वित्र॑म् । परि॑ । ए॒ति॒ । रेभ॑न् । मि॒ताऽइ॑व । सद्म॑ । प॒शु॒ऽमन्ति॑ । होता॑ ॥

सायणभाष्यम्

अस्य सोमस्य प्रेषा प्रेषतिर्गत्यर्थः क्विपिरूपं सावेकाचइतिविभक्तेरुदात्तत्वम् । प्रेषा प्रेरकेण हेमना हिरण्येन पूयमानः हिरण्यपाणिरभिषुणोतीति हिरण्यसंबन्धः । तादृशः देवोदीप्यमानांशुः रसमात्मीयं देवेभिःदेवैः सह समपृक्तः संपर्चयति संयोजयति । पृची- संपर्के ततः सुतोभिषुतः सोमः रेभन् शब्दायमानःसन् पवित्रं ऊर्णास्तुकेननिर्मितं पर्येति परिगच्छति । कथमिव होता देवानामाह्वाता ऋत्विक् मितेव निर्मितान् पशुमन्ति बद्ध- पशून् सद्म सदनानि यज्ञगृहान् यथा पर्येति तद्वत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११