मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ११

संहिता

अध॒ धार॑या॒ मध्वा॑ पृचा॒नस्ति॒रो रोम॑ पवते॒ अद्रि॑दुग्धः ।
इन्दु॒रिन्द्र॑स्य स॒ख्यं जु॑षा॒णो दे॒वो दे॒वस्य॑ मत्स॒रो मदा॑य ॥

पदपाठः

अध॑ । धार॑या । मध्वा॑ । पृ॒चा॒नः । ति॒रः । रोम॑ । प॒व॒ते॒ । अद्रि॑ऽदुग्धः ।
इन्दुः॑ । इन्द्र॑स्य । स॒ख्यम् । जु॒षा॒णः । दे॒वः । दे॒वस्य॑ । म॒त्स॒रः । मदा॑य ॥

सायणभाष्यम्

अधाथानन्तरं अद्रिदुग्धाः ग्रावभिर्देउग्धोभिषुतः सोमः मध्वा मदकारिण्याधारया पृ- चानः देवान् संपर्चयन् संयोजयन् रोम अविरोमभिः कृतं पवित्रं तिरस्तिरस्कृत्य व्यवधा- यकंकृत्वा पवते कलशेषु क्षरति । किंच इन्द्रस्यसख्यं सखिभावंकर्मवा जुषाणः सेवमानः देवोद्योतमानः मत्सरोमदकरइन्दुः सोमः देवस्येन्द्रस्य मदाय मदार्थं पवते क्षरति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३