मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् १६

संहिता

जु॒ष्ट्वी न॑ इन्दो सु॒पथा॑ सु॒गान्यु॒रौ प॑वस्व॒ वरि॑वांसि कृ॒ण्वन् ।
घ॒नेव॒ विष्व॑ग्दुरि॒तानि॑ वि॒घ्नन्नधि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ ॥

पदपाठः

जु॒ष्ट्वी । नः॒ । इ॒न्दो॒ इति॑ । सु॒ऽपथा॑ । सु॒ऽगानि॑ । उ॒रौ । प॒व॒स्व॒ । वरि॑वांसि । कृ॒ण्वन् ।
घ॒नाऽइ॑व । विष्व॑क् । दुः॒ऽइ॒तानि॑ । वि॒ऽघ्नन् । अधि॑ । स्नुना॑ । ध॒न्व॒ । सानौ॑ । अव्ये॑ ॥

सायणभाष्यम्

हे इन्दो दीप्त पवमान जुष्ट्वी स्नात्व्यादयश्चेतिनिपातितः स्तुतिभिः प्रीतोभूत्वा नो- स्माकं सुपथा सुपथानि वैदिकमार्गान् तथा वरिवांसि वरणीयानि धनानि सुगानि सुग- मनानि सुप्राप्तव्यानि कृण्वन् कुर्वन् । उरौ विस्तीर्णे द्रोणकलशे पवस्व क्षर । किंच घनेव घनीभूतेन लोहमयेनायुधेनेव विष्वक् सर्वतोदुरितानि दुःप्राप्तव्यानि रक्षांसि विघ्नन् हिंसन् सानौ समुच्छ्रितेदेशे अव्येअविभवे स्नुना स्रवता धारासंघेन अधिधन्व अधिगच्छ । धविर्गत्यर्थः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४