मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् १७

संहिता

वृ॒ष्टिं नो॑ अर्ष दि॒व्यां जि॑ग॒त्नुमिळा॑वतीं शं॒गयीं॑ जी॒रदा॑नुम् ।
स्तुके॑व वी॒ता ध॑न्वा विचि॒न्वन्बन्धूँ॑रि॒माँ अव॑राँ इन्दो वा॒यून् ॥

पदपाठः

वृ॒ष्टिम् । नः॒ । अ॒र्ष॒ । दि॒व्याम् । जि॒ग॒त्नुम् । इळा॑ऽवतीम् । श॒म्ऽगयी॑म् । जी॒रऽदा॑नुम् ।
स्तुका॑ऽइव । वी॒ता । ध॒न्व॒ । वि॒ऽचि॒न्वन् । बन्धू॑न् । इ॒मान् । अव॑रान् । इ॒न्दो॒ इति॑ । वा॒यून् ॥

सायणभाष्यम्

हे सोम नोस्माकं वृष्टिं अर्ष गमय । कीदृशीं दिव्यां दिविभवां जिगत्नुं गमनशीलं इरावतीं अन्नवतीं शंगयीं सूखस्यनिवासभूतां जीरदानुं क्षिप्रदानोपेताम् । किंच हे इन्दो त्वं स्तुकेववीता कांतानि स्तुकशब्दोपत्यवचनः अपत्यानि यथाविचिनोषि तद्वत् बन्धून् स्तुत्यस्तोतृत्वेन बन्धुभूतान् अवरान् अवरदेशेस्थितान् पर्थिवान् वायून् त्वां अभिगच्छ्त इमानस्मान् विचिन्वन् धनादिप्रदानार्थं गवेषमाणःसन् धन्व गच्छ ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४