मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् १८

संहिता

ग्र॒न्थिं न वि ष्य॑ ग्रथि॒तं पु॑ना॒न ऋ॒जुं च॑ गा॒तुं वृ॑जि॒नं च॑ सोम ।
अत्यो॒ न क्र॑दो॒ हरि॒रा सृ॑जा॒नो मर्यो॑ देव धन्व प॒स्त्या॑वान् ॥

पदपाठः

ग्र॒न्थिम् । न । वि । स्य॒ । ग्र॒थि॒तम् । पु॒ना॒नः । ऋ॒जुम् । च॒ । गा॒तुम् । वृ॒जि॒नम् । च॒ । सो॒म॒ ।
अत्यः॑ । न । क्र॒दः॒ । हरिः॑ । आ । सृ॒जा॒नः । मर्यः॑ । दे॒व॒ । ध॒न्व॒ । प॒स्त्य॑ऽवान् ॥

सायणभाष्यम्

पुनानः पूयमानस्त्वं ग्रथितं पापैर्बद्धं मां विष्य मुंच पापेभ्योविश्लेषय । कथमिव ग्रं- थिंन यथाकश्चित् ग्रंथिविश्लेषयति षोन्तकर्मणीति अस्यलोटिरूपम् । किंच हेसोम त्वं ऋजुं अवक्रं गातुं मार्गं च वृजिनं बलं च मह्यं देहि । हरिर्हरितवर्णस्त्वं आसृजानः पात्रेष्वा- सृज्यमानःसन् अत्योन अतनशीलोश्वइव क्रदः क्रंदसि शब्दायसे । किंच हेदेव मर्त्योमनुष्य हितो मारकोहिंसकोवा शत्रूणां पस्त्यवान् पस्त्यंगृहं तद्वांस्त्वं धन्व मामभिगच्छ कल- शान्वा ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४