मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् २०

संहिता

अ॒र॒श्मानो॒ ये॑ऽर॒था अयु॑क्ता॒ अत्या॑सो॒ न स॑सृजा॒नास॑ आ॒जौ ।
ए॒ते शु॒क्रासो॑ धन्वन्ति॒ सोमा॒ देवा॑स॒स्ताँ उप॑ याता॒ पिब॑ध्यै ॥

पदपाठः

अ॒र॒श्मानः॑ । ये । अ॒र॒थाः । अयु॑क्ताः । अत्या॑सः । न । स॒सृ॒जा॒नासः॑ । आ॒जौ ।
ए॒ते । शु॒क्रासः॑ । ध॒न्व॒न्ति॒ । सोमाः॑ । देवा॑सः । तान् । उप॑ । या॒त॒ । पिब॑ध्यै ॥

सायणभाष्यम्

अरश्मानोरश्मिवर्जिता रज्जुवर्जिताइतियावत् अरथारथवर्जिताः अयुक्ताः कुत्रापिननि- युक्ताः अबद्धाइत्यर्थः एतादृशाये आजौ युद्धे ससृजानासः सृज्यमानाः अत्यासोन अश्वा- यथा त्वरयालक्ष्यं गच्छन्ति तद्वत् आजौ अजन्ति कर्मकरणार्थमृत्विजोत्रेति आजिर्यज्ञस्त- स्मिन् सृज्यमानाः शुक्रासः शुक्रादीप्यमाना एतेसोमाः धन्वन्ति क्षिप्रं कलशानभिगच्छन्ति । अथप्रत्यक्षः हेदेवासोदेवाः तानागच्छतः सोमान् पिबध्यैपानायउपयातउपगच्छत ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४