मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् २५

संहिता

अर्वाँ॑ इव॒ श्रव॑से सा॒तिमच्छेन्द्र॑स्य वा॒योर॒भि वी॒तिम॑र्ष ।
स नः॑ स॒हस्रा॑ बृह॒तीरिषो॑ दा॒ भवा॑ सोम द्रविणो॒वित्पु॑ना॒नः ॥

पदपाठः

अर्वा॑न्ऽइव । श्रव॑से । सा॒तिम् । अच्छ॑ । इन्द्र॑स्य । वा॒योः । अ॒भि । वी॒तिम् । अ॒र्ष॒ ।
सः । नः॒ । स॒हस्रा॑ । बृ॒ह॒तीः । इषः॑ । दाः॒ । भव॑ । सो॒म॒ । द्र॒वि॒णः॒ऽवित् । पु॒ना॒नः ॥

सायणभाष्यम्

हेसोम अन्नार्थं युद्धे अर्वानिव अश्वोयथा गच्छति तद्वत् त्वं श्रवसे अस्माकमन्नार्थं तथा सातिमच्छ धनलाभंप्रति इन्द्रस्य वायोश्ववीतिं पानमभ्यर्ष अभिगच्छ । ऎन्द्रवाय- वग्रहे हि इन्द्रवायू सह सोमंपिबतइति सहोपादानम् । सत्वं सहस्रा सहस्राणि बहुविधा- नि बृहतीः बृंहितानि प्रवृद्धानि इषोन्नानि नोस्मभ्यं दाः प्रयच्छ । हे सोम पुनानः पूय- मानस्त्वं नोस्मभ्यं द्रविणोवित् धनस्य लंभयिता भव । द्रविणशब्दात्सर्वप्रातिपदिकेभ्यो- लालसायांसुग्वक्तव्यइति सुगागमः ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५